Saturday, 13 September 2025

VIWSASOUDHARYAM

 

पाठः १

विश्वसौन्दर्यम्

 

विश्वमिदं सर्वचराचरणां वासस्थानं भवति। वृक्षलतादयः पक्षिमृगादयः कृमिकीटादयश्च अत्र निवसन्ति । तदा कूपनदीतटाकादयः जलाशयाः पर्वताः मरुप्रदेशाः केदाराः महारण्यानि च अत्र दृश्यन्ते। एवं सुसम्पन्नं सुन्दरं वैविध्यपूर्ण विश्वमिदं पञ्चभूतात्मकमिति वदन्ति । अतः भूमिः, जलं, वायुः, आकाशं, तेजः इत्येतेषां संरक्षणम् अस्माभिः अवश्यं करणीयमिति अवबोधोत्पादनमेव पठस्यास्य उद्देश्यम्। प्रकृतौ दृश्यमानानि वस्तूनि अधिकृत्य कवितारूपेण अत्र वर्णयति । प्रकृतिविभवानां संरक्षणमेव अस्य कवितायाः मुख्याशयः ।

 

विशालसुन्दरविश्वं पश्यतु नयनानन्दकरम्। 

सर्वचराचरनिवासमतुलं मदीयनाकमिमम् ।।

विग्रहः

 

1.   1.  विशालसुन्दरविश्वम् -विशालं च तत् सुन्दरं च विशालसुन्दरं तादृशं विश्वम्।

2.  2.   सर्वचराचरनिवासम् -चराणाम् अचराणां च तेषां समाहारः चराचरं, सर्वं च तत् चराचरं च सर्वचराचरम्। तेषां निवासम्।

     3.अतुलम् -नास्ति तुला यस्य, तम्।

 

   4.नयनानन्दकरम् -नयनयोः आनन्दः नयनानन्दः, करोति इति करः, नयनानन्दस्य करः, तम् ।

 


           वहन्ति नद्यस्तिष्ठन्त्यस्मिन् महाचला बहवः ।

   अरण्यकेदारोपवनानि सुखप्रदानि तथा।।

पदच्छेदः

 

1.     महाचला बहवः

 

महाचलाः + बहवः ।

 

2.     नद्यस्तिष्ठन्त्यस्मिन्

 

 नद्यः + तिष्ठन्ति + अस्मिन् ।

 

विग्रहः

 

1.     महाचलाः -महान्तः च अमी अचलाःच।

 

2.     अरण्यकेदारोपवनानि- अरण्यं च केदारः च उपवनं च अरण्यकेदारोपवनानि ।

 

3.     सुखप्रदानि -सुखं प्रददाति, तानि ।

 

कूपतटाकलतातरुवृन्दान्यत्र विराजन्ते।

 प्रवाति पवनः सुमगन्धवहो विभाति खद्योतः ।।

 

पदच्छेदः

 

1.     कूपतटाकलतातरुवृन्दान्यत्र

 

कूपतटाकलतातरुवृन्दानि + अत्र।

 

2.     सुमगन्धवहो विभाति

 

सुमगन्धवहः + विभाति।

 

विग्रहः

 

1.     खद्योतः -खं द्योतयति इति।

2.     सुमगन्धवहः-सुमानां गन्धः सुमगन्धः, तस्य वहः।


 वर्षन्त्यस्मिन् काले कालेनवाम्बुभिर्मेघाः ।

 पुष्पफलाढ्या ऋतवः काले प्रत्यायान्ति मुदा।।

 

पदच्छेदः

 

1.     वर्षन्त्यस्मिन्

 

वर्षन्ति + अस्मिन् ।

 

2.     नवाम्बुभिर्मेघाः

 

नवाम्बुभिः + मेघाः ।

 

विग्रहः

 

     1.नवाम्बुभिः-नवं च तत् अम्बु च नवाम्बु, तैः ।

 

    2.पुष्पफलाढ्याः-पुष्पाणि च फलानि च पुष्पफलानि, तैः आढ्याः।

 




अस्मान् परितः प्रवर्धमाना सुस्थितिरेवं स्यात् ।

 वयन्तु तेषां पालनविषये सन्नद्धाः स्याम ।।

पदच्छेदः

 

1.सुस्थितिरेवं

 

सुस्थितिः + एवम्।

 

 

भावार्थः

 

विशालं मनोहरं च विश्वं नेत्राणां आनन्दकरं दृश्यते, यत्र नद्यः निरन्तरं वहन्ति, महाचलाः अरण्यानि च शोभन्ते, उपवनरूपेण भूमिः विराजते। वृक्षेषु पक्षिणः मधुरं गीतं कुर्वन्ति, सुगन्धयुक्तः पवनः सुखं ददाति, प्रकृतिः शुभध्वनिभिः विभाति। कालानुसारं वृष्टिः भवति, पुष्पफलसमृद्धाः ऋतवः आनन्दं जनयन्ति। एतेषां योगेन विश्वं सुन्दरं, समृद्धं, चिरस्थायि च भवति। अतः अस्य संरक्षणं पालनं च सर्वेषां मानवेषां मुख्यं कर्तव्यं निश्चितम्।

 

 

*content taken from class 9 “Keralapadavali” SCERT Text book Sanskrit(for academic and Sanskrit school). This content can be used for reference .

No comments:

Post a Comment

VIWSASOUDHARYAM

  पाठः १ विश्वसौन्दर्यम्   विश्वमिदं सर्वचराचरणां वासस्थानं भवति। वृक्षलतादयः पक्षिमृगादयः कृमिकीटादयश्च अत्र निवसन्ति । तदा कूपनदीतटा...