पाठः १
विश्वसौन्दर्यम्
विश्वमिदं सर्वचराचरणां
वासस्थानं भवति। वृक्षलतादयः पक्षिमृगादयः कृमिकीटादयश्च अत्र निवसन्ति । तदा
कूपनदीतटाकादयः जलाशयाः पर्वताः मरुप्रदेशाः केदाराः महारण्यानि च अत्र दृश्यन्ते।
एवं सुसम्पन्नं सुन्दरं वैविध्यपूर्ण विश्वमिदं पञ्चभूतात्मकमिति वदन्ति । अतः भूमिः, जलं,
वायुः, आकाशं, तेजः
इत्येतेषां संरक्षणम् अस्माभिः अवश्यं करणीयमिति अवबोधोत्पादनमेव पठस्यास्य
उद्देश्यम्। प्रकृतौ दृश्यमानानि वस्तूनि अधिकृत्य कवितारूपेण अत्र वर्णयति ।
प्रकृतिविभवानां संरक्षणमेव अस्य कवितायाः मुख्याशयः ।
विशालसुन्दरविश्वं पश्यतु नयनानन्दकरम्।
सर्वचराचरनिवासमतुलं
मदीयनाकमिमम् ।।
विग्रहः
1. 1. विशालसुन्दरविश्वम् -विशालं च तत् सुन्दरं च विशालसुन्दरं तादृशं विश्वम्।
2. 2. सर्वचराचरनिवासम् -चराणाम् अचराणां च तेषां समाहारः चराचरं, सर्वं च तत् चराचरं च सर्वचराचरम्। तेषां निवासम्।
3.अतुलम् -नास्ति तुला यस्य, तम्।
4.नयनानन्दकरम् -नयनयोः आनन्दः नयनानन्दः, करोति इति करः, नयनानन्दस्य करः, तम् ।
वहन्ति नद्यस्तिष्ठन्त्यस्मिन् महाचला बहवः ।
अरण्यकेदारोपवनानि सुखप्रदानि तथा।।
पदच्छेदः
1.
महाचला बहवः
महाचलाः + बहवः ।
2.
नद्यस्तिष्ठन्त्यस्मिन्
नद्यः + तिष्ठन्ति + अस्मिन् ।
विग्रहः
1.
महाचलाः -महान्तः च अमी अचलाःच।
2.
अरण्यकेदारोपवनानि- अरण्यं च केदारः च उपवनं च
अरण्यकेदारोपवनानि ।
3.
सुखप्रदानि -सुखं प्रददाति, तानि ।
कूपतटाकलतातरुवृन्दान्यत्र
विराजन्ते।
पदच्छेदः
1.
कूपतटाकलतातरुवृन्दान्यत्र
कूपतटाकलतातरुवृन्दानि + अत्र।
2.
सुमगन्धवहो विभाति
सुमगन्धवहः + विभाति।
विग्रहः
1.
खद्योतः -खं द्योतयति इति।
2.
सुमगन्धवहः-सुमानां गन्धः सुमगन्धः, तस्य वहः।
पदच्छेदः
1.
वर्षन्त्यस्मिन्
वर्षन्ति + अस्मिन् ।
2.
नवाम्बुभिर्मेघाः
नवाम्बुभिः + मेघाः ।
विग्रहः
1.नवाम्बुभिः-नवं च तत् अम्बु च नवाम्बु, तैः ।
2.पुष्पफलाढ्याः-पुष्पाणि च फलानि च पुष्पफलानि,
तैः आढ्याः।
अस्मान् परितः
प्रवर्धमाना सुस्थितिरेवं स्यात् ।
पदच्छेदः
1.सुस्थितिरेवं
सुस्थितिः + एवम्।
भावार्थः
विशालं मनोहरं च विश्वं नेत्राणां
आनन्दकरं दृश्यते,
यत्र नद्यः निरन्तरं वहन्ति, महाचलाः अरण्यानि
च शोभन्ते, उपवनरूपेण भूमिः विराजते। वृक्षेषु पक्षिणः मधुरं
गीतं कुर्वन्ति, सुगन्धयुक्तः पवनः सुखं ददाति, प्रकृतिः शुभध्वनिभिः विभाति। कालानुसारं वृष्टिः भवति, पुष्पफलसमृद्धाः ऋतवः आनन्दं जनयन्ति। एतेषां योगेन विश्वं सुन्दरं,
समृद्धं, चिरस्थायि च भवति। अतः अस्य संरक्षणं
पालनं च सर्वेषां मानवेषां मुख्यं कर्तव्यं निश्चितम्।
*content taken from class 9 “Keralapadavali”
SCERT Text book Sanskrit(for academic and Sanskrit school). This content can be
used for reference .


